श्री मद गुरुभ्यो नमः

श्री मद गुरुभ्यो नमः

Sunday, April 03, 2011

नव वर्षस्य महती शुभकामना


सर्वेभ्यः बन्धुभ्यः  अस्माकं नव वर्षस्य महती शुभकामना |
नूनं एतत्  सौभाग्यविषयः वयं प्रकृतौ आनन्देन वसामः | भारतमातुः अङ्के तस्याः संरक्षणे निश्चिन्ताः वयं | तत्रापि अस्मिन् परंपवित्रे भारत देशे सर्वदा अनुकूलवतवरणे 
आनन्देन विचरामः| अतः अस्माकं कर्तव्यं एतत् वयं अस्याः रक्षणे अपि ध्यानं दद्म | नोचेत् यादृशी स्थितिः अस्माभिः निर्मित तया सर्वेषां विनाशः निश्चितं एव | अतः पर्यावरणस्य रक्षायै , जलस्य सदुपयोगाय वयं जागरुकाः भवेम् | मानवीय मूल्यानां यथा पतनं जायते तेन तु मानवः विनाशाय अग्रे सरति | तत्र सर्वत्र त्रुटिः अस्माकं एव नान्यस्य अतः अद्य नूतेन वर्षे नव-विचारैः संकल्पं कृत्वा चलामः| यस्मात् एषा अस्माकं भारत-माता मुदिता भवेत् |
भवतां 
भूपेन्द्र पाण्डेयः

3 comments:

SANSKRITJAGAT said...

भवत: कृते अपि नववर्षस्‍य शुभाषया: ।

नवरात्रे: अपि मंगलकामना:


मा भगवति भवत: उपरि वरदहस्‍तं स्‍थापयेत्

SANSKRITJAGAT said...

प्रिय महोदय
मम सादरम् अनुरोध: अस्ति यत् भवान् कृपया नियमितरूपेण संस्‍कृतस्‍य लेखान् लिखतु ।

जालजगति एवमेव संस्‍कृतस्‍य प्रायश: अभाव: अस्ति , केचन् एव सन्ति ये संस्‍कृतं लिखन्ति , तेषु भवान् अन्यतम: । अत: निवेदनमस्‍ति यत् कृपया संस्‍कृतलेखनं दैनिकं करोतु ।

प्रतिदिनं अथवा न्‍यूनातिन्‍यूनं सप्‍ताहे 3 लेखा: अवश्‍यमेव लिखतु । एवं विधा संस्‍कृते: कल्‍याणं भवितुमर्हति ।


धन्‍यवादा:


भवदीय: - आनन्‍द:

Dr.R.P.Sharma said...

महॊदय नमांसि ।

भवतः ब्लाग् / वेब् सैट् पृष्ठं संस्कृतवाण्यां (The unique Sanskrit aggregator)संयॊजितं इति वक्तुं संतॊषं प्रकटयामि । तदत्र निम्नॊक्तप्रदॆशॆ द्रष्टुं शक्यतॆ

http://sanskrit.teluguthesis.org/aggregator/sources

अन्यदपि मॆ विज्ञापनं यद्भवतां ब्लाग् / वेब् सैट् पृष्ठॆ अस्माकं संस्कृतवाण्याः ( http://sanskrit.teluguthesis.org/node/2 प्रदॆशॆ लभॆत् ) चित्रं यथाशक्ति प्रकटीकुर्युः यॆन वयं धन्याः, कृतज्ञाश्च भवॆम ।

संस्कृतवाणी कृतॆ -

पाण्डुरङ्गशर्मा रामकः



--
संस्कृतवाणी

Sanskrit Aggregator's Blog