श्री मद गुरुभ्यो नमः

श्री मद गुरुभ्यो नमः

Sunday, April 03, 2011

नव वर्षस्य महती शुभकामना


सर्वेभ्यः बन्धुभ्यः  अस्माकं नव वर्षस्य महती शुभकामना |
नूनं एतत्  सौभाग्यविषयः वयं प्रकृतौ आनन्देन वसामः | भारतमातुः अङ्के तस्याः संरक्षणे निश्चिन्ताः वयं | तत्रापि अस्मिन् परंपवित्रे भारत देशे सर्वदा अनुकूलवतवरणे 
आनन्देन विचरामः| अतः अस्माकं कर्तव्यं एतत् वयं अस्याः रक्षणे अपि ध्यानं दद्म | नोचेत् यादृशी स्थितिः अस्माभिः निर्मित तया सर्वेषां विनाशः निश्चितं एव | अतः पर्यावरणस्य रक्षायै , जलस्य सदुपयोगाय वयं जागरुकाः भवेम् | मानवीय मूल्यानां यथा पतनं जायते तेन तु मानवः विनाशाय अग्रे सरति | तत्र सर्वत्र त्रुटिः अस्माकं एव नान्यस्य अतः अद्य नूतेन वर्षे नव-विचारैः संकल्पं कृत्वा चलामः| यस्मात् एषा अस्माकं भारत-माता मुदिता भवेत् |
भवतां 
भूपेन्द्र पाण्डेयः