श्री मद गुरुभ्यो नमः

श्री मद गुरुभ्यो नमः
Showing posts with label नव वर्षस्य महती शुभकामना. Show all posts
Showing posts with label नव वर्षस्य महती शुभकामना. Show all posts

Sunday, April 03, 2011

नव वर्षस्य महती शुभकामना


सर्वेभ्यः बन्धुभ्यः  अस्माकं नव वर्षस्य महती शुभकामना |
नूनं एतत्  सौभाग्यविषयः वयं प्रकृतौ आनन्देन वसामः | भारतमातुः अङ्के तस्याः संरक्षणे निश्चिन्ताः वयं | तत्रापि अस्मिन् परंपवित्रे भारत देशे सर्वदा अनुकूलवतवरणे 
आनन्देन विचरामः| अतः अस्माकं कर्तव्यं एतत् वयं अस्याः रक्षणे अपि ध्यानं दद्म | नोचेत् यादृशी स्थितिः अस्माभिः निर्मित तया सर्वेषां विनाशः निश्चितं एव | अतः पर्यावरणस्य रक्षायै , जलस्य सदुपयोगाय वयं जागरुकाः भवेम् | मानवीय मूल्यानां यथा पतनं जायते तेन तु मानवः विनाशाय अग्रे सरति | तत्र सर्वत्र त्रुटिः अस्माकं एव नान्यस्य अतः अद्य नूतेन वर्षे नव-विचारैः संकल्पं कृत्वा चलामः| यस्मात् एषा अस्माकं भारत-माता मुदिता भवेत् |
भवतां 
भूपेन्द्र पाण्डेयः